Shri Badrinath Stuti

जय श्रीहरि नारायण – 

भू-वैण्ठकृतावासं देवदेवं जगत्पतिम् ।
चतुर्वर्गप्रदातारं श्रीबद्रीशं नमाम्यहम् ।।१।।


तापत्रयहरं साक्षाच्छान्तिपुष्टिबलप्रदम् ।
परमानन्ददातारं श्रीबद्रीशं नमाम्यहम् ।।२।।


सद्यः पापक्षयकरं सद्यः कैवल्यदायकम् ।
लोकत्रयविधातारं श्रीबद्रीशं नमाम्यहम् ।।३।।


भक्तवाञ्छाकल्पतरुं करुणासारविग्रहम् ।
भवाब्धिपारकर्तारं श्रीबद्रीशं नमाम्यहम् ।।४।।


सर्वदेवनुतं शश्वत् सर्वतीर्थास्पदं विभुम् ।
लीलयोपात्तवपुषं श्रीबद्रीशं नमाम्यहम् ।।५।।


अनादिनिधनं कालकालं भीमयमच्युतम् ।
सर्वाश्चर्यमयं देवं श्रीबद्रीशं नमाम्यहम् ।।६।।


गन्धमादनकूटस्थं नरनारायणात्मकम् ।
बदरीखण्डमध्यस्थं श्रीबद्रीशं नमाम्यहम् ।।७।।


शत्रूदासीनमित्राणां सर्वज्ञं समदर्शिनम् ।
ब्रह्मानन्दचिदाभासं श्रीबद्रीशं नमाम्यहम् ।।८।।


श्रीबद्रीशाष्टमिदं यः पठेत्प्रयतः शुचिः ।
सर्वपापविनिर्मुक्तः स शान्तिं लभते पराम् ।।९।।