Shiv Pratah Samran Stotram

ॐ अथ शिवप्रातःस्मरणस्तोत्रम् –

प्रातः स्मरामि भवभीतिहरं सुरेशं
गङ्गाधरं वृषभवाहनमम्बिकेशम् |
खट्ट्वङ्गशूलवरदाभयहस्तमीशं
संसाररोगहरमौषधमद्वितीय
म् ||१||

प्रातर्नमामि गिरिशं गिरिजार्धदेहं
सर्गस्थितिप्रलयकारणमादिदेवम् |
विश्वेश्वरं विजितविश्वमनोभिरामं
संसाररोगहरमौषधमद्वितीयम् ||२||

प्रातर्भजामि शिवमेकमनन्तमाद्यं
वेदान्तवेद्यमनघं पुरूषं महान्तम् |
नामादिभेदरहितं षड्भावशून्यं
संसाररोगहरमौषधमद्वितीयम् ||३||


प्रातः समुत्थाय शिवम् विचिंत्य

श्लोकत्रयं येअनुदिनम पठन्ति ।
ते दुःखजातं बहुजन्मसंचितं 
हित्वा पदं यान्ति तदेव शम्भो: ॥ ४ ॥